संस्कृतकाव्येषु लोकोक्तिप्रयोग:
Keywords:
लोकोक्ति, संस्कृतकाव्य, Maxims in SanskritAbstract
लोके प्रचलितव्यवहारस्याभिव्यक्ति: लोकोक्तिमाध्यमेन भवति।अतएव सामान्यजनजीवने प्रसारितसांसारिकक्रियाकलापस्य निष्कर्षरूपास्सन्ति लोकोक्तय: मानवीयधियस्सारभूतास्वेतासु लोकोक्तिषु ज्ञानस्य गूढमर्म नीलिनं विद्यते। अस्मिन्सन्दर्भे लोकानुभूत्या अर्थगौरवं सूक्ष्मव्यावहारिकज्ञानं च दृष्टिपथमायाति। स्वल्पै: शब्दै: गम्भीरभावानां प्रकटनम् अर्थगौरवमिति कथ्यते। भारविकाव्ये अर्थगौरवस्य महिममण्डनमवलोक्य साहित्यकारा: समीक्षकाश्च भारवेरर्थगौरवमिति सहर्षमुद्घोषिवन्त:। पुनश्च हिन्दीभाषायां “बिहारीसतसई” इत्यस्य गम्भीरभावानां निदर्शनविषये – ‘गागर में सागर भरना’ इत्युक्ति: प्रसिद्धा जाता। अतः लोकोक्तय: सूत्रप्रणाल्या अल्पशब्दै: गम्भीरार्थस्य प्रकाशिकास्सन्ति। लोकजीवनस्य यथार्थपक्षप्रकाशिकानां लौकोक्तीनामुपादेयता सांसारिकव्यवहारे प्रतिपदं द्रष्टव्यास्ति। अत एव शास्त्राद् लोकव्यवहारोऽधिक: महत्त्वपूर्ण: इत्यस्याशयभूतं कथनमिदं वर्तते – “यद्यपि शुद्धं लोकविरुद्धं नहि करणीयं नहि करणीयम् ।”
References
दोतोलिया, पं० श्री रामस्वरूप (n.d.). अभिनवनीतिशतकम्. जयपुर: रचना प्रकाशन।
मिश्र, अभिराज राजेन्द्र (2009). अभिनवपञ्चतन्त्रम्. इलाहाबाद: वैजयन्त प्रकाशन।
शर्मा पाण्डेय, मोहन लाल (1993). रसकपूरम्. जयपुर: पाण्डेय प्रकाशन।
भट्ट, डॉ. राजेन्द्रप्रसाद (2003). गुर्जरभूकम्पशतकम्. उज्जयिनी, मध्यप्रदेश।
शर्मा पाण्डेय, प्रो॰ ताराशंकर (n.d.). आत्मालाप: (खण्ड काव्य). समय-समय पर भारती पत्रिका तथा फेसबुक पर प्रकाशित।
शास्त्री, पं॰ नरेन्द्रकान्त (रचयिता) एवं शर्मा, प्रो॰ सुरेन्द्रकुमार (सम्पा.) (2012). श्रीगोतमेश्वरशतकम्. जयपुर: हंसा प्रकाशन।
Downloads
Published
Issue
Section
License
Copyright (c) 2024 Pratnakīrti

This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License.